SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १० गृहीत्वा पुद्गलाssस्वादं रममाणश्च तैः सह । विष्ठाकीट इवाऽसौ तु पापं कर्म दधाति च व्यस्मरच्च स्वयं भ्रान्त्वा रूपं निश्चलमात्मनः । अशुद्धपरिणामेन भवकूपेऽहमापतम् चेत चेत झटित्यात्मन् !! शुद्धरूपं निभालय । एतत्संसाररूपं तु मायाजालं स्फुटं तव इदानीं भ्रान्ति मुत्सृज्य स्वान्तर्दृष्ट्या विलोकय । अन्तर्दृष्ट्या निजालोके गुणसृष्टिः प्रकाशते तिरोभावनिजर्द्धाना-माविर्भावः प्रकाशनम् । परमात्मपदं तत्तु तत्पदस्याऽस्मि किंकरः तत्पदं येन विज्ञातं ध्यानं तत्राऽस्ति यस्य च । धृतं साधुपदं तेन शुद्धज्ञानं च तस्य हि तत्पदानुपयोगेन यो याति व्यवहारतः । तैलयंत्रवृषस्येव संसारो नैव नश्यति ॥ १०८ ॥ आत्मोपयोगिसाधूनां क्रिया सद्गुण धाम हि । मतहठातिमग्नानां दुःखधामाऽखिलक्रियाः Shree Sudharmaswami Gyanbhandar-Umara, Surat ॥ १०६ ॥ ॥ ११० ॥ ॥ १११ ॥ ॥ ११२ ॥ ॥ ११३ ॥ ॥ ११४ ॥ हृष्यान्नवरसज्ञानैः काव्यं कुर्यादनेकशः । तत्पदानुपयोगेन भश्मनीव घृतद्रवः ददाति नरकं तर्कों यस्यात्मज्ञान मस्ति न । शब्दशास्त्रात्सुसंभिन्नं गुणवदात्मनः पदम् पौराणिकः कथां वक्ति चारणाश्चित्तरञ्जकाः । वादं कुर्वन्त्यजाजीवा सर्व धर्म विना वृथा आत्मभानं न चे चित्ते क्रियाकाण्डो न मुक्तिदः । आत्मोपयोगिसाधूनां धर्मकर्मगुणाकरः ॥ ११५ ॥ ॥ ११६ ॥ ॥ ११७ ॥ ॥ ११८ ॥ ॥ ११६ ॥ www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy