________________
८
अस्थादनादिकालन स्थास्यत्यनन्तकालतः । नित्यानित्यत्वतो रूपि द्रव्यं निर्णीयते सदा ॥ ८४ ॥ ये घटाद्या निरीक्ष्यन्ते तान्सर्वान्विद्धि पुद्गलान् । ते भिन्ना आत्मतः सन्ति शास्त्रवाक्यैः प्रमाणय ॥ ८५ ॥
-
विशन्पुद्गलदेशेषु चेतनः कर्म वेष्ठितः । स्वीकुर्वन्तन्ममत्वं तु — मारं मारं स दैन्यवान् ॥ ८६ ॥ कृतेषु कोट्युपायेषु पृथ्वी कस्याऽपि नाऽभवत् । लक्षोपायविधानेऽपि नभः कैश्चिन्न गृह्यते ॥ ८७ ॥ कृत्रिमं पौद्गलं वस्तु गृहदुर्गपणादिकम् । स्वर्ण रौप्यं धनं सर्व पुद्गलक्रीडनं खलु ॥ ८८ ॥ पुद्गलानां सदा द्रष्टा ज्ञाता च सुखदुःखयोः । पुद्गलेष्ववसत्सोऽय मात्मा सर्वगुणालयः ॥ ८६ ॥ पुद्गला ये निरीक्ष्यन्ते तेभ्यो भिन्नोऽस्ति चेतनः । चेतनः कर्मणां कर्ता, यदाऽन्यपरिणामवान् ॥ ६० ॥ आत्माऽसंख्यप्रदेशोऽस्ति तस्य प्रतिप्रदेशकम् । ज्ञानानन्त्यं जिना ऊचुः सत्पर्यायं विजानत ॥ ६१ ॥
भेदावुपयोगस्य सामान्येन विशेषतः । श्रसंख्यातप्रदेशेभ्यो भोक्ताऽस्ति स्वगुणस्य च 11 ER 11 श्रनन्ताऽस्तित्वधर्माणां भोक्ताऽस्ति स्वात्मराडयम् । अनन्ता नास्तिधर्माश्च प्रतिक्षणं भवन्ति ते ॥ ६३ ॥ शुक्लश्रात्मप्रदेशोऽस्ति समतारसवारिधिः । आत्मा स्वगुणकर्ताऽस्ति स्वस्मिन्शुद्ध नयेन च ॥ ६४ ॥ तत्प्रदेशेषु वासेन साम्यसंगे विहारतः । उच्छलन्ति सदानन्द - वीचयः सुखसागरे ॥। ६५ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com