________________
लप्स्यन्त इंदृशाःशिष्या अनेकान्तपथं शुभम् । अभ्यस्य गुरुतो ग्रन्थान् भविष्यन्ति महाव्रताः॥७२॥ निर्ग्रन्थश्च महान् भूत्वा पंचाचारं च पालयेत् । व्यवहारं धरेच्छुद्धं रक्षन्पंचमहाव्रतम् ॥७३॥ निश्चयात्मस्वरूपेषु रममाणो दिवानिशम् ।। गुणपर्यायमीमांसा,-विधौ लीनः सदा भवेत् ॥ ७४ ॥ . पद्रव्यनवतत्त्वाना मुपयोगोऽस्ति बोधतः ।
आत्माऽनेकगुणीनां नित्यभोगविधायकः ॥७५ ।। न भोगी परभावानां ध्यानवानात्मरूपतः । न ध्यानं परभावानां स्वं चरित्रं स पश्यति ॥ ७६ ॥ अखएडमक्षयं नित्यमात्मरूपं विलोक्य सः । चमत्कृतो निजात्माऽय,-मरेऽहं तु महानृपः ॥७७॥ परदेशेषु बभ्राम लब्ध्वा दुःखानि भूरिशः । निजदेशं शुभं दृष्ट्वा शान्तोऽभुवं शिवार्थिकः ॥ ७८ ॥ परपद्धलदेशं तु निजदेशं विवेद च । तन्ममत्वं मुधा कृत्वा दधौ वेषं तु पौद्गलम् ॥ ७६ ॥ स्थाने स्थाने हि बभ्राम दुःखाकरचतुर्गतौ । तत्रापि ममदेशेति गुणहान मकारयम् ॥८० ।। हानि न स्यात्प्रदेशात्तु धर्माधर्मविहायसाम् । पुद्गलानां च यो देशे दत्ते दुःखानि मोहिने ॥८॥ पंचवर्णा यतः सन्ति द्वौ गन्धौ भवतो यतः । यत्र पंचरसाः सन्ति स्पर्शा अष्टौ वसन्ति च ॥८२ ॥ पर्याया ईदृशा यत्र तद्भव्यं पुद्गलाभिधम् । लोकालोकेषु तव्याप्तं तदनादिः प्रवर्तते ॥ ८३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com