SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ निन्देदवगुणं स्वीयं प्रणमन्विधिना गुरुम् । क्षणे क्षणे गुरुं पश्यन्नानन्दं हृदि धारयेत् ॥ ६० ॥ विनेयाधिकृतिः प्रोक्तानुभवपंचविंशतौ । तद्रीत्या ये चलिष्यन्ति, तरिष्यन्ति भवाम्बुधिम् ॥ ६१ ॥ रमणीयां स्त्रियं दृष्ट्वा प्रेमिचित्ते यथा रतिः । शिष्याणां च तथा रागः सद्गुरूणां ततोऽधिकः ॥ ६२ ॥ यस्य चित्ते नहि ज्ञानं गुरोः सम्यक्त्वदायिनः । परोपकारिणीं बुद्धिं, - विना भ्राम्यति सोऽबुधः ॥ ६३ ॥ दीक्षागुरौ तथा भेदो गुरौ सम्यक्त्वदायके | रविखद्योतवद्भेदः सुशिष्या हृदि जानत ॥ ६४ ॥ दृश्यो धर्मगुरु र्यः स दीक्षादायी महामुनिः । वेत्स्यन्ति ज्ञानिनोऽवश्यं संशयं न मनाक् कुरु ।। ६५ ।। गुरुमेवं हि सेवस्व भव सद्गुणधाम च । लभन्ते गुणिनः शिष्या स्वविश्रामं शिवे पुरे ॥ ६६ ॥ सूर्योदयाः सहस्रं स्युः द्योततां शतधा शशी । दीपकाश्चेत्सहस्रं स्युः किञ्चिन्नान्धो निरीक्षते ॥ ६७ ॥ प्राप्येत सद्गुरु र्ज्ञानी यदि चोपदिशेदति । मूढास्तन्न हि जानन्ति — एवं क्लेशविधायकाः ॥ ६८ ॥ जडो भूत्वा जडत्वेन गुरौ कुगुरुबुद्धिमान् । खरपुच्छग्रही वाऽसौ स्वात्मशुद्धिं करोति न ॥ ६६ ॥ विश्वासी सद्गुरो नैव विश्वासः कुगुरो स्तथा । अज्ञानी पशुरात्माऽयं सर्वदुःखस्य धामः सः ॥ ७० ॥ तर्कशक्तिः परा यस्य गम्भीरवचनश्च यः । चित्ते यस्याsस्ति मोक्षाशा धीरो यो धर्मकर्मणि ॥ ७१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy