SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ मनस्यन्यत्तथा बाह्ये ततोऽन्यद्यस्य वर्तते । न समः कथने वृत्तौ स चतुष्पथतस्करः ॥ ४८ ॥ उद्घाटयति यः सम्यग् ज्ञात्वा धर्मस्य पेटिकाम् । सेवस्व सत्यचित्तेन महाकारुणिकं गुरुम् ॥ ४६॥ वने वने न मातंगा देवो नास्ति युगे युगे। प्रतिमुण्डं गुरुत्वं न ज्ञात्वा सेवस्व सद्गुरुम् ॥ ५० ॥ विषयभैक्ष्यभोगी न, ब्रह्मचारी गुणालयः । बलवृत्तिपरित्यागी यस्तं वन्दे महागुरुम् ॥ ५१ ।। धर्मरत्नं मुदा यस्माल्लब्धं कारुणिकाद्गुरोः। सदैव शरणं तस्य व्यर्थ नान्यच्च चिन्तय ॥ ५२ ॥ गुरवो वन्दिता भ्रान्त्वा शतधा चाहतं शिरः । यत्र तत्र नतं मुनों किंचित्सारं न लब्धवान् ।। ५३ ।। भ्रान्त्वाऽनेकभवाने-वमपारं दुखमाप्तवान् । सद्गुरुर्निःश्रमं लब्ध, स्तन्मां तारय तारय ॥ ५४ ॥ विनेयश्च महान् भक्तः, श्रद्धायां यन्मनःस्थिरम् । साहसी शिवधामार्थी गम्भीरो निजचेतसि ॥ ५५ ॥ वैराग्येषु मनोलनं वारिता विषयस्पृहा । धैर्य मेरुसमं यस्य वशे कायो वचः मनः ॥ ५६ ॥ स्वीकृत्य समतां चित्ते येनेा च विनाशिता । कुर्वतः सद्गुरो भक्तिं लभन्ते शिवसम्पदम् ॥ ५७ ॥ गच्छन् गुरुनिदेशेन नाज्ञालोपं करोति यः । शिक्षयन्तं गुरुं स्वीयं कदापि नहि कुप्यति ॥५८ ॥ गुरुसेवारतश्चापि प्रकाशयति तद्गुणान् । नेचते गुरु वैगुण्यं गुरुभक्तः स निश्चितः ॥१६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy