SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ स्वच्छन्दचारितां त्यक्त्वा अभिसेवस्व सद्गुरुम् । गुर्वाधीनंमनःकृत्वा लभस्व शाश्वतं पदम् ॥ ३६॥ नहि मूलमृते वृक्षो न ज्ञानं गुरुमन्तरा । वाचय ग्रन्थपत्राणि किन्त्वज्ञानं न नश्यति ॥ ३७ ॥ मानेन पठन ज्ञानं लोकरंजनहेतवे ।। विनाऽऽत्मलक्ष्यिकथ्यानं मुक्तिराज्यं न लभ्यते ॥ ३८ । कृत्वा छलैः क्रियाकाण्डं करोति लोकरंजनम् । तच्छुष्कं ज्ञानमप्येकं निरर्थ वित्त भो जनाः ॥ ३९ ॥ लाभेऽलामे सुखे दुःखे समता शत्रुमित्रयोः । औदासीन्यं स्वचित्तेषु नौरास्ति स भवाम्बुधेः ॥ ४० ॥ निन्दका अतिनिन्दन्तु पूजकाः पूजयन्तु च । वक्ष्यन्त्याटोपिनं धृतः सर्वान्पश्य च साम्यतः ॥ ४१ ॥ अन्तःसृष्टि गुणानां च निःसमाऽऽत्मनि वर्तते । वितण्डां. वादिनां श्रुत्वा मौनिनः सम्भवन्ति ते ॥ ४२ ॥ धर्माणामुपदेशस्तु यत्राऽस्ति नटसनिभः । अन्तर्दृष्टि ने यत्रास्ति मिथ्यावषोऽस्ति तस्य तु ॥४३॥ दुर्गम्ये कलिकालेऽस्मिन्दृश्यते विरलो गुरुः । अन्ये तु सर्ववल्मीकात्सर्पराशिरिव स्मृताः ॥ ४४ ॥ द्वेषं गच्छममत्वं च धृत्वा चित्ते कदाग्रहम् । मतमतान्तरे प्राप्तः दुर्गतिप्रमदासुहृत् ॥४५॥ गतागतेऽब्धिपूराणां व्यग्रा मत्स्या भवन्ति हि । प्राणनाशस्तटागत्या न्यायो गच्छस्य चेदृशः ॥ ४६॥ शरीरे न ममत्वं चेत-तदेहातिंक च बंधनम् । व्यवहारेण गच्छस्थः स्वान्तर्गुणगणालयः ।। ४७ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy