________________
आयुष्कर्मोदयेनैव विहरेत्स महीतले । सर्वकर्मविनाशेन लभ्यं शिवपुरं पुन:॥ २३३ ॥ न जन्ममरणे यत्र न शोकविरहौ यतः। क्षुत्पिपासे न यत्र स्त श्चिन्ता रोगो नवा यतः॥३४॥ पंचदेहाच्च यो भिन्नो यानायानविवर्जितः । रूपारूपस्वरूपी च यत्र तृष्णा नवा मनः॥ २३५ ॥ यत्राष्टवर्गणा नैव लिङ्गं वेदो न जातयः । छेदो खेदो नवा यत्र प्राणाः पञ्चेन्द्रियाणि च ॥२३६॥ अतिदूरं यतः स्थानात्सातासाते च जग्मतुः सहजानन्दरूपे तु सुखं पूर्ण प्रवर्त्तते ॥ २३७ ॥ परमेशः सदानन्दः परात्मा पुरुषोत्तमः । दुःखातीतस्वरूपो हि नहि शब्दादयः पुनः ॥२३८॥ रागद्वेषौ न यत्र स्त आत्मज्योतिश्च निर्मलम् । शुद्धो भूत्वा स्वसत्ताभि महोद्योतं चकार सः ॥२३६।। लोकत्रये दिनाधीशो यश्च स्वान्यप्रकाशकः । वाचामगोचरो धर्म,-रूपः क्षायिकवान्प्रभुः ॥२४०॥ चेतने शुद्धरूपे हि अस्ति भेदद्वयं ततः। अस्तिनास्तिमयाः सन्ति अनन्ता धर्मराशयः ॥२४॥ नित्यानित्यस्वभावो य आत्मरूपमयोऽचलः । भव्याभव्यस्वभावात्मा शुद्धोऽनन्तप्रभाववान् ॥२४२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com