SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ अखण्डश्चाव्ययश्चाजो निःसंगश्च निराकृतिः। यद्गुणा नित्यपर्याया अगुरुलघुमान्स्वयम् ॥२४३॥ अक्षरोऽविचलो धर्ममयो वाण्या अगोचरः। केवली यन्न शक्नोति वक्तुं ज्ञातुमपि स्वयम् ॥२४४॥ निवृत्तिमत्समस्त्येत दुःखं किञ्चिन्न वा यतः । सनातनं शिवं लब्ध्वा अपारं लभतां सुखम् ॥२४५॥ तिरोभावगुणानां च आविर्भावो यदा भवेत् । तदा त्वं परमात्माऽसि तत्त्वमस्यादिबोधितः॥ २४६॥ अहं त्वं भेदभावो न स्वात्मद्रव्यं तु निर्मलम् । अनन्तगुणतोऽनेक एकोऽसंख्यप्रदेशतः ॥२४७॥ मुक्तौ जीवा अनन्तास्तु भवन्ति सदृशा गुणैः। व्यक्तिरूपेण भिन्नास्ते कैश्चित्कोऽपि न पीड्यते ॥२४८॥ साद्यनन्तस्थितिस्तत्र मुक्तिस्थानं च निर्मलम् । नास्ति स्वस्वामिभावोऽपि सत्तावन्तः समास्तथा २४६ शुद्धरूपमगाधं यत्तल्लेशानुभवं हृदि। प्राप्यैतत्पदमाख्यातं देशो यस्यास्ति चोत्तमः॥२५०॥ त्रयोदशगुणस्थानं लब्ध्वा स्वात्मा प्रकाशते। अनन्तगुणसर्वज्ञो न विनाशी स वर्तते ॥२५१ ॥ जिनेश्वरर्षभो देवः शोभते माणसापुरे । पार्श्वप्रभोः सहायेन ग्रन्थ एवं मया कृतः ॥२५२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy