SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ३८ धारयन्सद्गुरोराज्ञां वैयावृत्येऽनुरागवान् । क्षुद्रावृत्ति न यस्याऽस्तिस्वान्तर्ज्ञानं करोति च ॥२२३॥ न स्वसंकल्पमोक्तारः गुरुभक्ता दयाप्रियाः । तथा शिष्यास्तु संसारे भवन्ति मोक्षगामिनः॥२२४॥ आत्मनो योग्यतां यान्ति सजनाः शिष्यसाधवः । अन्तरात्मानमाज्ञाय भवन्ति जगदीश्वराः ॥ २२५ ॥ जगन्नाथो निजात्माऽस्ति संसारे तीर्थ मुत्तमम्। विना सत्तीर्थविज्ञानं सारं न कोऽपि शोधयेत् ॥२२६॥ येन सर्वे हि शोध्यन्ते वर्त्तसे स त्व मात्मराट् । अनन्तद्धिनिधिस्वामी स्वपदं स्वेन गीयते ॥२२७॥ यत्पारगमनं तीर्खा प्रतीपसरणी नदीम्। परमात्मपदप्राप्ति स्तस्मादपि सुदुष्करा ॥ २२८ ॥ अब्धिशोषं करिष्याम उद्यतन्ते च टिट्टिभाः। ध्रुवं स्याबृदि सन्तोष: साहसेन तथाऽऽत्मनि ॥२२६॥ धर्मध्यानावलम्बेन शुद्धभावः प्रवर्तते । शुक्लध्यानान्शमाप्नोति स्वगुणानपि मानवः ॥ २३०॥ शुक्लध्यानं प्रकुर्वाण: कुर्वन्कर्मविनाशनम् । केवलज्ञानसद्भासा लोकालोक: प्रकाशते ॥ २३१ ॥ चत्वारि घातिकर्माणि पृथक् कृत्वा स्वयं स्वतः । वेदनीयादिकर्माणि दग्धरज्जुवदासते ॥ २३२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy