SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आत्मशुद्धस्वरूपो हि स्थिरदृष्टया च धार्यताम् । ज्ञानेन भासते स्वात्मा लोकालोकप्रकाशकः ॥१६॥ केवलशुद्धरूपे तु अखण्डानन्द उद्भवेत् । लोकाचारे परं दृष्टो भवदुःखमहोदधिः ॥१९४ । रत्नचिन्तामणिं त्यक्त्वा काचमिच्छेच्च को जनः। अात्मन् !! क्षणिकसौख्यार्थं सत्यं त्यजति किं भवान्१९५ शाश्वतः सत्य पात्माऽयं सुखानां धाम शाश्वतम् । नान्यत्र कुत्रचित्सौख्यं किं विस्मरसि चेतन !।१९६। विक्षिप्तो ज्ञानशून्यो य स्तस्य चान्तस्तमो महत् । बाह्यसौख्यस्य लाभार्थस्थानात्स्थानं च गच्छति।१६७॥ स्वप्नमोदकभोगेन बुभुक्षा नैव शाम्यति । परपुद्गलसौख्यं यद् दुःखसम्बन्ध एव तत् ॥१९८॥ जानीहि स्वं स्वयं स्वात्मन्नपारं पारवान् यतः । निर्मलः केवलज्ञानस्वरूपः स्वगुणाकरः ॥१९९॥ निर्मलं भवतो ज्योति निरञ्जनमतीन्द्रियम् शुद्धा निरुपमा सत्ता निश्चयनयत स्तव ॥२०॥ मूढा बाह्यं हि पश्यन्ति स्वान्तः पश्यन्ति योगिनः श्रात्मा स्वपरविद्योती स्वान्तर्गुह्यमिदं वचः ॥२०१॥ का वाता ते करिष्येऽहं सर्ववाचामगोचरः। स्याद्वादसत्तया पूर्णश्चिदानन्दस्वरूपवान्. ॥२०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy