SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अस्तिनास्तिस्वरूपाणां, स्थानं त्वमसि शाश्वतम् । त्वां विनाऽन्योऽस्ति को देवो भगवाँश्च प्रभुर्विभुः।२०३॥ द्रष्टा शाश्वतलोकाना मलोकानां भवान्स्वयम् । लिंगं जाति न ते योनि नाम वेषोऽपि ते नहि ॥२०४॥ स्थित्युत्पादव्ययात्मा च गुणपर्यायधारकः। ... ज्ञानामृतस्वरूपस्त्वं बाह्याचारो न ते मतः ॥२०॥ मनश्चांचल्यमुत्सृज्य स्वमात्मन्येव मार्गय । चिदानन्दचरित्रस्य जायन्तेऽन्तर्महामुदः ॥२०६॥ तवाऽसंख्यप्रदेशेषु निश्चलाऽस्त्यवगाहना। अन्तर्दृश्यस्वरूपस्त्वं पृथक् नैव कदाचन ॥२०७॥ परमात्मा स एवाऽहं सिद्धो बुद्ध श्च शाश्वतः। सोऽहं सोऽहमिति ज्ञानं सम्बन्धः सत्य एव सः॥२०८॥ त्वं सदैव समृद्धीनां भोगी क्षायिकभावतः ध्यायेत शुद्धरूपं चेत् तदा सर्व प्रकाशते ॥२०९॥ किं ते कथनमात्रेण स्वोपयोगं स्वयं कुरु । आत्मा निजोपयोगी यः सोऽनन्तसुखभोगवान् ॥२१०। तास्तु पुद्गलरूपा याः स्युः कर्माष्टकवर्गणाः पुद्गलेभ्योऽसि भिन्नस्त्वं मोक्षरूपश्च चिन्मयः॥२११॥ उच्छिष्टं पुद्गलं लब्ध्वा भोगं तेन करोषि किम् । भिन्नद्रव्येण को मेलो ज्ञात्वा तं पुद्गलं त्यज ॥२१२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy