SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सम्रा राजा च रंकश्च सर्व नाटय मिदं जगत् । नात्र ते ममतांशोऽपि पुद्गलममतां त्यज ॥ १८३ ॥ सर्वस्मात्त्वं महाश्रेष्ठ स्तव दास इदं जगत् । आशादासीवशे कृत्वा ध्याने वासं सदा कुरु ॥१८४॥ धर्माधर्मवियत्काल,-पुद्गलान्चिन्तयाधुना । तेभ्यस्त्वं सर्वदा भिन्नः कालेनाऽनादिना तथा ॥१८५, भूत्वाऽन्यपरिणामी त्वं पुद्गलेऽनादिकालतः। कृत्वाऽज्ञानं च मिथ्या त्वं शक्तिमेव व्यनाशयः॥१८६॥ पुद्गलो न हि ते मित्रं तस्य संगे न ते सुखम् । एकत्वेन सुखं तेऽस्ति दु:खं तु मोहभावतः ॥१८७॥ मोहेनाहो निजात्माऽयं बद्धो भवति पुद्गलैः। दुःखोपायं तु वेत्त्यात्मा विदन्ति नच पुद्गलाः॥१८८॥ स्वस्मिन्मिलन्ति दुग्धाम्बु-वत्सातासातपुद्गलाः। आत्मा परग्रही भूत्वा सुखंदुःखं समश्नुते ॥ १८९ ॥ बाह्यस्य परिणामेन भवेबन्धो निजात्मनः । बाह्यदृष्टि भवन्नात्मा स्वयमन्धः प्रजायते ॥ १६ ॥ अन्तर्दृष्टिं च कुर्वाण आत्माऽऽत्मानमवेक्षते । बद्धो भवति नात्माऽयमानन्दः खस्वभावतः ॥१९॥ मात्माऽसंख्यप्रदेशेन, स्वयमेव प्रकाशते । द्वयोपयोगतश्चात्मा, शुद्धसिद्धश्च शाश्वतः ॥१६२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy