SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ जायते म्रियते नैव विद्धि स्वमविनाशिनम् । अजरोऽथामरः स्वाऽऽत्मा त्वं सुखायतनं महत्।१७३। अनन्तशक्तिसम्पन्नमनन्तद्धे श्च कारणम् । निश्चलं ध्यायमानानां,-क्लेशो नश्येदनादिजः ॥१७४।। न त्वं दुःखी न दुर्भागी स्वान्तदृष्टिं प्रधारय । अमूल्यायुः स्वयं प्राप्य प्रीतिं च स्वगुणे कुरु ॥१७॥ स्वर्णं नासि नवा रौप्यं पुद्गलस्कन्ध एव सः । तत्र त्वं लोभको भूत्वा मूढ किं नाम वश्यसे ॥१७६॥ नासि नारी न पुत्रादि स्त्वत्तो भिन्न मिदं जगत् । सदा भिन्नोऽसि सर्वस्मात्स्वं दीनं मन्यसे कथम् ॥१७७।। पामाघर्षणवृद्ध्यर्थं सुखं दुःखमयं हि तत् । विषयवासनासौरव्यं भवकूपोऽस्ति केवलम् ॥१७८॥ स एव भवमूलं य श्चेतनः परसम्मुखः । 'आत्मावस्थानुकूलःस चेतनः यः स्वसम्मुखः॥१७॥ परभावे यदारक्त स्तदा कर्म समश्नुषे । विहरन्स्वस्वरूपे च त्वं प्राप्नोषि सदा सुखम् ॥१८०॥ अन्तर्दृष्टि हि धर्मोऽस्ति कर्माणि बाह्यदृष्टितः । रहस्यं तस्य संचिन्त्य चित्ते चिन्तय सज्जन !! ॥१८॥ अन्तर्दृष्टिमनुष्याणां,-चित्तष्वानन्द उद्भवेत् । जगत्पाशसमं तेषां केवलं दुःखकारणम् ॥ १८२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy