SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १८ तथैव चायं ननु बाह्य आत्मा, दशामनेकां विविधां च वेत्ति ॥ यदाऽन्तरात्मा भवति स्वबोधात्तदा न कश्चिद्धृदि तस्य खेदः ॥१४० ॥ यो ज्ञानवानस्ति निजान्तरात्मा, स्वपीति सोऽयं परभावमध्ये ॥ तथा स जागर्ति निजस्वरूपे, स्वभाव एषः खलु चेतनस्य ॥ १४१ ॥ चतुर्थं च गुणस्थान-मारभ्याऽयं स्वचेतनः ॥ द्वादशस्थानपर्यन्त-मन्तरात्मैव कथ्यते ॥१४२ ॥ अन्तरात्मिकयोगेन सम्यक्त्वी कथ्यते जनः । अन्तर्वृत्तिस्तु चैतेषां भिन्नत्वेन परीक्ष्यते ॥१४३॥ रसो विषाभो विषयस्य येषां, रंगो न येषां परपुद्गलानाम् ॥ वैराग्यमेवास्ति मनस्सु येषां, मजन्ति धन्याः समताद्युनद्याम् ॥ १४४ ॥ साम्यं सुवर्णोपलयोश्च येषां, येषां समौ निन्दकवन्दकौ च ॥ निजान्तरात्मासुमतां जनानामभ्यास एवं खलु वर्तनीयः ॥१४५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy