________________
२७
त्यक्त्वा गुरूणां वचनामृतं च, विषस्य पानं विदधे शरीरी ॥ १३४ ॥
आविर्भावतिरोभावौ सत्ताव्यक्ताविमौ मतौ । स्वकीयर्द्धितिरोभावस्तस्य हेतुः प्रमादता ॥१३५॥ परान्स्वकीयानवबुध्य सोऽहं, परप्रदेशे भ्रमणं चकार ॥ संमोहमायासु विभूय मत्तः, . क्लेशाननेकान्विविधाँश्च लेभे ॥ १३६ ॥ अहर्निशं रागगतो बभूव, यतस्ततोऽहं भ्रमणं चकार ॥ रागस्य रोषस्य च योगहेतोः, कर्म गृहित्वा तु लभेऽतिदुःखम् ॥१३७ ॥ यथाऽस्ति बुद्धो भगवान्परात्मा, सिद्धादयश्वाऽपि यथा भवन्ति ॥ अात्माऽहमप्यस्मि तथैव नास्मिन्नुत्कृष्टनिष्कृष्टविधे ने भेदः ॥ १३८ ॥ यथा निजस्वप्नदशामु चित्तं, चांचल्य मेवालभते न शान्तिम् ॥ स्वस्वप्नसृष्टिं बहु भाषते च, तजागृते दूरतरं प्रयाति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com