________________
२९
ज्ञानं च तस्याऽऽचरणं च सेवा, तथोपयोगः स्थिरभावतः स्याद् ॥ भोगो भवेदौदयिकाख्यभावे, यथास्ति योगो जलपङ्कजानाम् स्यादात्मतत्त्वस्य विचारणा च, ध्यानं च धर्मस्य भवेत्स्वचित्ते ॥ आर्तस्य रौद्रस्य तथा विमोके, निजान्तरात्मा भवति स्वमित्रम् ॥ १४७ ॥
स्वोत्कर्षयोगेन यदीयचित्तं,
ध्यानं न यस्यास्ति परापकर्षे ॥ सदैव नैवास्ति यदीयवृत्ति, स्तमन्तरात्मानमवेहि चित्ते सम्पूर्णसंसार मिमं नरा ये, जानन्ति विष्टागृहतुल्यमेव ॥ ते चान्तरात्माभिधमानवा हि, लोकेषु तेषां सफलेोऽवतारः भोगाँश्च ये रोगसमान्विदन्ति, न संसृतौ सौख्यलवोऽपि तेषाम् ॥ जगत्परं स्वार्थपरं तथेमे, माता पिता स्वसृगणाश्च सर्वे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥ १४६ ॥
॥ १४८ ॥
॥ १४९ ॥
॥ १५० ॥
www.umaragyanbhandar.com