________________
न रागरोषौ भवतो यदन्त, देहेन शून्यो भगवान्स साक्षाद् । कार्ये विना तत्समवायिहेतुं, निमित्तहेतोः कथमस्ति धाम ॥८३॥ अनादिकालाजगदस्ति सत्यं, स्वयं च तत्सिद्धमिदं च वित्त । कर्ता न तस्य प्रभुरस्ति कश्चिदेवं स्वचित्ते धियमानय त्वम् । ॥८४॥ अनादिकालात्परिणामभाजी, चाशुद्धतत्तत्परिणामयोगात् । देहादिकानामयमस्ति कर्ता, स्वात्मेति कर्तृत्वपदप्रयोगः प्रात्मा स एवाऽस्ति परो महेशः, सत्तानयेनेतिबुधैः प्रणेयम् । स्वर्णं यथा शुद्धमशुद्धमस्ति, न्यायं च सयुक्तियुतं गृहाण स्वतः परेषां परिणामयोगास एव प्रात्मा परकारकोऽस्ति । स शुद्धतत्तत्परिणामवाँश्चेरस्वेषां गुणानां हि तदाऽस्ति कर्ता ॥ ८७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com