________________
यद्वा पुनर्जन्मनि सत्प्रमाणं, प्रमाणितं तत्प्रथमं मया तु ॥७७ ॥ मया पुनर्जन्मप्रमेयसिद्धिरात्माख्यग्रन्थे लिखिता विचार्य । ज्ञात्वा स्वयं ज्ञानिजनश्च सत्यं, प्रवर्तते मुक्तिपथानुयायी
॥ ७८॥ श्रद्धा दृढा चेत्प्रभवेजनानां, तदा तु सम्यक् सकलं विभाति । ये सन्ति वा दुर्भविनो मनुष्याः
श्रद्धा कदाचिद्धृदये न तेषाम् ॥ ७६ ॥ भवन्ति सरला वका मिष्टान्नं जायते विषम्सदा दुर्भविजीवाना मन्धकारोऽन्तरे हृदि ॥८॥
कोऽहं च मे कः किमिदं च दृश्यं, नैषां च भावः हृदयेऽपि कश्चिद् । या बाह्यदृष्टेननु वासनेयं, प्रवर्तते सा बहिरात्मधाम ॥८१॥ परेशकर्तृत्वमतानुगानां, बाह्याऽऽत्मनां स्यात्परमो विनोदः ।
आत्मा हि साक्षात्परमः पराऽऽत्मा, विनेति विज्ञानमयोऽन्धकारः ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com