________________
१८
स ईश्वरः कर्मविवर्जितोऽस्ति, स कारकःस्याच्च कथं परेषाम् । कर्ता परेषां स तु बाह्य आत्मा, सम्यक्प्रमाणः परमार्थ एषः श्रात्मा तु मिथ्यापरिणामतः स्यात्षट्कारकाणां व्यवहार भाजी | स शुद्ध तत्तत्परिणाम कर्ता, शुद्धत्वतो वै परिणामवान्स्यात् ॥ ८६ ॥ श्रात्मानं मन्यते कश्चित् सर्वत्र व्यापकं प्रभुम् । एकमात्मानमेवाऽसौ मुक्तं बद्धं च मन्यते ॥ ६०॥ एते परात्मप्रतिबिम्बभाजो, जीवा अनेके ननु ये च सन्ति । जीवत्वनाशे सति सैव आत्मा, भवत्यशेषः परमात्मदेवः
नैवंविधं वर्तत आत्मतत्त्वं, सर्वेषु यत्तस्य भवेद्विभुत्वम् । एकं भवेच्चेज्जगदात्मतत्त्वं, दुःखं सुखं वा न तदा घटेत एकस्य बन्धेन समग्रबन्ध, चैकस्य मोक्षेण समग्रमोक्षः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥ ८८ ॥
॥ ९१ ॥
॥६२॥
www.umaragyanbhandar.com