________________
उत्पद्यते राजगृहेऽपि कश्चित् , कश्चित्पुनर्भिक्षुकजीर्णकुट्याम् । दानोत्थपुण्यस्य विनोररीस्यान् , न्यायालये सन्तमसं तमश्च ॥ ५२ ॥ व्रतेन दानेन तपोजपाभ्यां, पुण्यस्य बन्धो भवति स्फुटश्च । तस्यानुसारं लभते च जन्म, . सयुक्ति मेतां हृदये कुरुष्व ॥५३ ॥ पाश्चात्यलोकैः सह सङ्गमेन, वैकल्यमानोति सतां च बुद्धिः। प्राप्तोक्तशास्त्रश्रवणं विना स्या, सदैव ते नास्तिकता मनस्सु ॥५४ ॥ करोति संगं न च सद्गुरूणां, सद्ग्रन्थपाठं न तथा करोति । सदा पुरस्कृत्य मतिं स्वकीयां, सदैव मूढः कुपथे प्रयाति न दीर्घदृष्टिः समुदेति येषां, तत्त्वावबोधोऽपि तथा न येषाम् । सुधारयन्ते किमिहाऽतिमूढा; निर्बुद्धयः कौशलशक्तिशून्याः ॥ ५६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com