________________
१०
सज्ज्ञानिभिः सर्वमिदं च दृष्टं, स्वर्गस्तथाऽयं नरकश्च साक्षाद् । सर्वज्ञदृटेरिदमस्ति दृश्यं,
जगत्समग्रं सचराचरं च ॥ ४७ ॥ चन्द्रग्रहोऽयं तपनग्रहो वा, सूत्र: स्वयं सूत्रकृता बभाषे । स्वर्गोऽपि तद्वन्नरकोऽपि तद्वत्, सत्यत्वत स्तद्वृदि वित्त विज्ञाः ॥ ४८ ॥ प्रयोजनं ज्ञानवतां किमस्ति, यदर्थमेवं परिकल्पयन्ति । रागो न रोषो न विभाति येषां, ख्याताश्च ते भूमिषु सत्यवाचः ॥ ४९ ॥
दानेन किम्वा तपसाऽपि किम्वा, जापेन किम्वा व्रतसाधनेन । प्रकुर्वते मुग्धजनाः कुतर्क,
न जायते तद्धिषणा स्थिरा भोः ॥ ५० ॥
दानेन सर्वेप्सितमस्ति लभ्यं, दानेन संसिद्ध्यति चाऽपि सर्वम् । उत्पद्यते स्वोत्तमजातिगेहे,
सर्वं तदेतन्महिमाऽस्ति तस्प ॥ ५१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com