________________
पश्यन्ति तं ज्ञानिजनाः परेशं, मूढो जन श्चेतसि तुष्णिमास्ते ॥ ४१ ॥ दृग्गोचरे स्तो न हि पुण्यपापे, सैषाऽपि शङ्का तव युक्तिहीना। वाय्वादयो दृष्टिपथं न यान्ति, तान्वा प्रवीणाः कथमामनन्ति ॥ ४२ ॥ न पुद्गलस्कन्धचयोऽपि कश्चित् , . प्रेक्षावतां दृष्टिपथं प्रयाति । स्पष्टास्तथा केचिदथो भवन्ति, न किन्तु ते दृष्टिपथं प्रयान्ति ॥ ४३ ॥ स्पष्टे तथा स्तो ननु तापशैत्ये, न किन्तु ते स्तः क्वचिदागृहीते । असातसाताभिधपुद्गला ये, फलोदये ते प्रमिति प्रयान्ति ॥ ४४ ॥ उत्पद्यते कोऽपि भवी मनुष्यः, पुण्यप्रकर्षे त्रिदशालयेऽपि । अत्युग्रपापै नरकेऽपि कश्चि,दाश्चर्यमायाति किमत्र विद्वन् ! ॥ ४५ ॥ कल्पनां नरकं स्वर्ग, मन्यन्ते मूढचेतसः । अन्यथा सत्यरूपं न, रहस्यं चैतदान्तरम् ॥४६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com