________________
सर्वज्ञदेवेन स आलुलोके, श्रीकेवलज्ञानविलोकनेन ॥ ३६ ॥ कुत्रेश्वरो दृष्टिपथं प्रयातीत्येवं वचो धीविकला वदन्ति । सज्ज्ञानदृष्ट्या सकला भवन्ति, जायेत वस्तत्र हठाग्रहः कः ॥ ३७ ॥ प्रत्यक्षलक्ष्यं खलु यद्यदस्ति, तदेव वश्चेत्परमं प्रमाणम् । पितामहा ये भवतामभूवन् , किन्तत्र युष्माकमहो प्रमाणम् ॥ ३८ ॥ परम्पराभिः सकला भवन्ति, चेन्मानसं व स्तदुरीकरोति । परम्पराभिर्यदि तीर्थनाथं, मन्येत तक्लेश इहास्ति वः कः ॥ ३९ ॥ तीर्थङ्करः सर्वविदस्ति भूमा, सत्यस्वरूपं प्रकटीकरोति । ददर्श देवः स समयसिद्धान् , सच्छाश्वताँच्छुद्धमयाश्चितस्तान् ॥ ४० ॥ तीर्थङ्करोऽसौ परमेश्वरोऽस्ति, शिवाख्यपुर्याः परमो महीपः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com