________________
१२
॥
नेदं पुनर्जन्म च सिद्धमस्ती, - त्येवं जनाः केऽपि समुदगिरन्ति । प्रवर्तते सत्यवचो न तेषां, विचार्य सत्यं हृदि सूचयामः ॥ ५७ ॥ अनादिकालाद्यदि सिद्ध आत्मा, तदा पुनर्जन्म कथं न सिद्धम् । विना पुनर्जन्मनि संस्कृतिं वा, कथं शिशोः स्तन्यगतिः प्रसिद्धा ॥ ५८ ॥ उत्पद्यते कोऽपि विनचक्षु रुत्पद्यते कोऽपि विहीनपादः । एतत्पुराजन्मकृतै च पापैः, संजायते न्यूनशरीरवत्त्वम् सुशोकिनः केऽपि जना भवन्ति, भवन्ति केचिद्वहुरोगिण श्च । तत्पूर्वजन्मार्जितपापजालैरनेकसन्तापमहो लभन्ते
।। ५९ ।।
PAR
॥ ६० ॥ ;
उदेति जातिस्मरणं च यस्मादू, सिद्धा पुनर्जन्मकथा च तस्माद् । तस्मात्पुनर्जन्म विनाशनाशा- " दनादिरात्मा स्वयमेव सिद्ध ॥ ६१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com