________________
ये नाम बाह्यात्मधियो मनुष्याः, कथं तरिष्यन्त्यथ ते भवाब्धिम् ॥ २१ ॥ दानेन किं स्यात्तपसा तथा किं, जापेन किं वा व्रतसाधनेन । धूतैः कृता केवल कल्पनेयं, मुग्धा जनास्तत्र परिभ्रमन्ति ॥ २२ ॥ एतत्समा: सन्ति धियस्तु येषां, · ते सन्ति बाह्यात्मधिय स्तु दीनाः । न धर्मगुह्यं च विदन्ति किश्चिद्, यतस्तु ते सद्गुरुसंगहीनाः ॥ २३ ।। यः पंचतत्त्वात्मकपुद्गलोऽयं, देहः स आत्मेति विचारयन्ति । अस्माच्छरीरात्पृथगस्ति, नात्मेति नास्तिका हृद्यवधारयन्ति ॥ २४ ॥ सद्युक्तिसूक्ष्मप्रतिभे विनाऽय, मात्मा न च ज्ञानसुगोचर: स्यात् । जडास्तु येऽनात्मविदो मनुष्यास्ते भूरिशो भूरिभवे भ्रमन्ति ॥ २५ ॥ श्रीवीतरागस्य विभोर्वचोभ, तिं भवत्येव समग्रमेतत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com