________________
संगेऽयमात्मा च सतां गुरूणां, स्याद्वादरूपत्वमथ प्रयाति ॥ २९॥
अनन्तकालं भ्रमितो भवेषु, तत्त्वप्रतीतिर्न तथाऽऽविरासीत् ।
विनाऽऽत्मतत्त्वावगमं जगत्सु, नायाति नाशं भवभूतभीतिः ॥ २७ ॥
कर्तारमीशं ननु मन्यतेऽसौ, स्वकीयबुद्ध्या जनता जगत्सु । न तत्त्वमार्ग गणयन्ति मूढा, - स्तेषां च विद्या सकला निरर्था ॥ २८ ॥
बाह्यात्मनां सम्प्रति वासना या, भवाम्बुधे र्मूलमियं हि दीर्घा । मोहासवस्वादनतस्तु नूनं,
चक्रे महाभ्रान्तिमिमामसीमाम् ॥ २९ ॥
यदा यदोदेति विवेकदृष्टि, -
ज्ञतं भवत्येव तदा समग्रम् । भेदावबोधस्य च योजनेयं,
न्यायो यथाऽत्रास्ति तु हंसचञ्चुः ॥ ३० ॥
त्वं पंचतत्त्वादतिभिन्न एव, चेतस्सु तच्चेतन विद्धि सत्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com