________________
ते त्रीन्द्रिये वा चतुरिंद्रिये वा, नि:संख्यदुःखावभुजो बभूवुः ॥ १६ ॥ स्वं स्वं परिभ्रम्य समग्रयोनी, पंचेन्द्रिये जन्म दधार कश्चिद् । पंचेन्द्रिय सन्तिभिदाश्चतस्त्रो, देवादिकांस्तान्हृदि वित्त विज्ञाः ॥ १७ ॥ अनन्तकाला: प्रसभं व्यतीता, बाह्याऽऽत्मबुद्धो भवतां निरर्थम् । भेदावबोधस्य विनैकयोगं, न स्वात्मशुद्धिं लभते मनुष्यः ॥ १८ ॥ परोभव: केन जनेन दृष्टः, कस्येश्वरो दृष्टि पथं प्रयाति । पानं तथा भोजनधारणे च, सत्यं वचो नास्तिकवादिनोक्तम् ॥ १९ ॥ दृग्गोचरे स्तो नहि पुण्यपापे, स्वर्ग च विज्ञापय बन्धुराज । पुण्यस्य पापस्थ च कल्पना या, प्रवर्तते भूमिषु वञ्चना सा ॥ २० ॥ भ्रान्तः स्ततो मुग्धजना भवन्ति, निरर्थकं ते च विचारयन्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com