________________
(२६ ) साम्येन भोगतो धर्मः, स्वोदयप्राप्तकर्मणाम् । यः प्राप्तकर्मणां भोगो, ज्ञानिनां योग एव सः॥२४७॥ राज्यादिकप्रवृत्ति र्या, सेवाभवत्यादिकं च यत् । तत्र ज्ञान्यात्मशुद्धि हि, स्यादृद्धिः कर्मनाशतः॥२४८॥ प्रज्ञा यत्र च बध्यन्ते, निबन्धा स्तत्र पंडिताः । सुखदुःखादिभोगेन, भक्तानां ज्ञानमुद्भवेत् ॥२४६॥ न्यायेन चेद्भवेद्राज्यं, स्वाधिकारेण कर्म च । प्रात्मा न लिप्यते किन्तु, स्वासक्तिः कर्मलेपिनी ॥२५॥ मद्भक्ता दुःखभोगेन, भक्तिमार्ग व्रजन्ति हि । कर्मभोग्यपि नो बद्धः, कर्मबन्धस्तु मोहिनाम् ॥२५१॥ गृहित्यागिभिदा धर्मो गुणः कर्म द्वयोः पृथक् । स्वाधिकारेण वर्तेते, द्वे लभेते परं पदम् ॥२५॥ गृहादिं गृहिणां कर्तु-, मधिकारः स्वकर्मतः । भक्तिं सेवां क्रियां ज्ञानं, लब्ध्वा भक्त प्रभुर्भवेत्॥२५३॥ जैनानां सम्मुखे दुष्टा, भवन्ति दुष्टकर्मतः । तैः सार्धं च तदा जैनैः, कर्तव्यं धर्मयोधनम् ॥२५४॥ धर्म्ययुद्धे न दोषोऽस्ति, पोषस्त्वात्मगुणस्य हि ॥ बहुला निर्जरा स्याञ्च, विशुद्धात्मा प्रशोभते ॥२५५॥ गृहस्थस्येदृशो धर्मः, कर्मकृत् स्वाधिकारतः ॥ संघदेशं समाजं च, स्वार्पणेन च रक्षयेत् ॥ २५६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com