________________
( २७)
रक्षयित्वाऽऽर्यसद्रीति, द्रव्यभावरिपुं जयेत् ॥ शत्रुभि ने जितः स्याच्च, सर्वजीवान्प्ररक्षय ॥२५७॥ कुर्वत्यात्मधिया कर्म, स्वात्मशुद्धिश्च जायते ॥ तज्ज्ञानावरणीयादि,-नाशतो धर्म उद्भवेत् ॥२५॥ पूर्णानन्दं महोऽनन्तं, वेत्ति मां स दहेद्भवम् ॥ भावकर्म निराकृत्य, स्वात्मभावः प्रकाशते ॥२५॥ आर्यराज्यं शुभं भूमौ, प्राज्यं सत्यदयैक्यतः॥ आर्याणां त्वमसि श्रेष्ठः, सम्यक्त्वादिगुणग्रही ॥२६०॥ रीतिरार्यसमा नास्ति, नीतिरार्यसमा नहि ॥ पूर्वतो व्यवहारोऽयं जयन्नद्यापि वर्तते ॥२६१ ॥ एवमार्यास्तु जैनास्ते, न दीना ये मृतावपि ॥ . परमार्थ हि मुञ्चन्ति, देहं जीवसहायकाः ॥२६२॥ दासो न दुष्टशत्रूणां, युद्धथेच्च मरणावधि ॥ जैनो न स्यात्पराधीनो, ह्यत्यासक्तिं त्यजेत्तथा॥२६३॥ पृथक् गच्छेन्न च न्याया, नान्यायं सहते तथा ॥ एतदर्थं च यत्कार्य, शुद्धाऽऽत्मा तेन शोभते ॥२६॥ सुकर्म हन्ति दुष्कर्म, कर्मबन्धोऽस्ति कर्मतः ॥ सात्त्विकाचारविज्ञाना, न्यात्मज्ञानस्य कारणम् ॥२६५॥ न दुःखं तस्य यो वेत्ति, कर्मात्मानौ विवेकतः ॥ कात्मतत्त्वबोधेन, स्वात्मतत्त्वं प्रकाशते ॥२६६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com