________________
( २५ )
तदेवं कर्मसिद्धान्तः, निर्भ्रमो भव जीवक ॥ त्वं त्यजाऽशुभकर्माणि कषायानशुभांस्त्यज ॥२३७॥ सुकषायान् शुभं कार्यं, सेवा भक्ताद्युपायकम् ॥ कृत्वाऽऽत्मनि विश प्रेम्णा, यत्प्रदेशाः सुनिर्मला ः॥ २३८ ॥ सर्वसंगेषु निःसंगो, शुद्धमात्मानमाचर ॥ जायते केवलज्ञानं, स्वयं तेन प्रभुर्भव कर्मभावेन लीनः स्या, भिन्ने स्त श्रात्मकर्मणी ॥ कर्मण्यात्मतया तिष्ठ, निर्लेपार्थमिदं वचः
॥ २३६ ॥
॥२४०॥
"
॥२४१॥
कर्माधीनाश्च पर्याया - स्तेषु नात्मत्वमानय । आत्मरूपे निलीयस्व, कृतकर्माऽपसारय कर्म कर्मस्वभावेन, पश्यात्मानं स्वभावतः । श्रात्मनि सत्यधर्मोऽस्ति, पुद्गलेष्वस्ति पौद्गलः ॥ २४२॥ चलैवं निश्चयं कृत्वा, कुपथं कुमतं त्यज । प्रमीय जैन सिद्धान्तं, प्रवर्तस्व स्वबोधतः ॥२४३॥ आत्माऽस्ति सत्तया शुद्धः, प्रबुद्धः शुद्धनिश्चयात् । पर्यायः कर्मणाऽशुद्धो, विशुद्धः कर्मनाशतः ॥२४४॥ कर्मतो न भयं धेहि, ततोऽप्यात्मा महाबली । कर्मनाशं क्षणेनात्मा, करोति स्वोपयोगतः ॥२४५॥ अनन्तभवकर्माणि, क्षणे हत्वा सुखालयः । स्वमराज बलीत्येवं, जागृतः स च निर्ममः ॥२४६ ||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com