________________
( ८० ) उपकारा अनेके ये, यथाशक्तिसुखप्रदाः । नैसर्गिकोपकारश्च, प्रकृत्या तस्य जायते ॥१९५॥ जीवन्मृता नवन्त्येते, ये लोका अपकारिणः । योगं क्षेमं च ते यान्ति, मच्बूद्धामधारकाः ॥१९६॥ उपकारैर्यथा भाव-स्तथा धर्मोऽपि वर्द्धते । वैरशान्तिस्तथा धर्म-वृद्धिः स्यादुपकारतः ॥१९७॥ दुःखिरोगिजनोद्धारं, कर्तुं भवन्तु तत्पराः । उपकारोहि वीराणां, धर्म एवाऽस्ति वर्णिनाम् ॥१९८॥ कुरु यात्रार्थिनां शालां, दानं देह्यजयादिकम् । पशुपक्षिनृणां दुःख-नाशेन त्वं सुखी नव ॥१९९॥ जजन्ति नाम मे ये च, हृदि तेषामुपग्रहः । परमार्थपरा भक्ताः, स्वार्थ जानन्ति तत्र हि ॥२०॥ तत्रोन्नतिः सुख शान्ति-जैनधर्मों भवेद्यतः । हिंसादिदोषनाशःस्या-त्सन्तोषः सर्वदेहिषु ॥ २०१॥ बुद्धिसत्वादिवृद्धिः स्या-त्सर्वस्याच्छान्तिकारणम्। विस्तृते जैनधर्मे च, सर्व पापं विनश्यति ॥२०२॥ समाजदेशयोद्धि-जैनधर्मस्य सेवने । जैनधर्मेऽखिला धर्माः, कुरु कर्माणि निश्चयात् ॥२०३॥ पालयेदेशनां मेचे-सुखं देशसमाजयोः। जैनधर्मक्रियाज्ञाने, यत्र स्तश्च ततः सुखम् ॥२०४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com