________________
(७९) उपकर्तुस्तिरस्कारः, सङ्कटमृत्यु रेव वा। अपकीर्तिर्वधो बन्धः, स्या ज्ज्ञानी नाऽत्र शोचति १८५ त्वं वन्दस्वोपकर्तारं, तन्नाम नच गोप्यताम् । न निन्दयोपकर्तारं, नोपकर्तवधं कुरु ॥१८६ ॥ गुरुदेवोपकारो य-स्तं चित्ते स्मर नित्यशः । जगजीवोपकाराय, सोद्यमा स्याः सुदर्शने ॥ १८७ ॥ यत्कालेऽस्त्युपकारो यः, कुरुध्वं तं नराः स्त्रियः। जीवा जीवन्ति नो केचि-दुपकारग्रहं विना ॥१८॥ फलं बहूपकारेऽस्ति यथाभावं फलं नवेत् । कामिनां काम लाजोहि, बहु निष्कामिनां फलम् १८९ परोपकारे त्यज नो स्वनीति, परोपकारे कुरु नैव भीतिम्। नैवोपकारे कुरु खेदलजे, सुदर्शने नापि विभेद दुःखे१९० निष्कामेन सकामेन, भावेनोपग्रहेनृणाम् । धनप्राणादिदानेन, मम ज्ञान प्रकाशते ॥१९१ ॥ उपकारेऽपकारं घ, यदि कुय्युनराः स्त्रियः ॥ तर्हि तदुपकारेण, भक्तिमुक्तिश्च निश्चिता ॥ १९२ ॥ उपकारा भवन्त्येते, रजःसत्त्वतमोगुणाः ॥ सत्त्वगुण्युपकारोऽस्ति, जावेनैतान्समाचर ॥१९३॥ उपकारेषु सम्मान्ति, तपोनावत्रतादयः । उपकारेषु ते धर्मा-उपकारेऽखिलाः क्रियाः॥ १९४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com