________________
( ८१ )
क्रियया यत्र महोधो वर्तते च तदुन्नतिः । मदांधै यें च वर्तन्ते तेषां स्यान्निश्चितं सुखम् २०५ जैनधर्मक्रियाज्ञाना - त्पृथग्भूताश्च ये नराः । ते शान्तिसुखतो दूरं दुःखिनोऽन्योन्ययुद्धतः २०६ नाद्यन्तौ जैनधर्मस्य, सन्तस्ते जैनधर्मिणः । मद्रूपं जैनधर्मोऽस्ति, चिदानन्दस्वरूपकम् ॥२०७॥ सत्यानन्दात्मिकज्ञानं, जैनधर्मस्य लक्षणम् । गुणकर्माणि वर्णाश्च, सन्ति बाह्योपचारतः ॥ २०८ ॥ मां भजन्भजते धर्म, जैना जानन्ति मर्म तत् । जैनधर्मो मयि प्रोतः, प्राप्यते मम जापतः ॥ २०९ ॥ मद्रागिणां मनुष्याणां नश्यति कामवासना । दोषाः कामादयः सर्वे, नश्यन्ति मद्रतेः खलु ॥ २९०॥ मयि यस्य जवत्प्रीति-स्तस्य नो व्यजिचारिता । नाशयेन्मैथुनादिं च गुणस्तुष्टिः प्रकाशते ॥ २९९ ॥ यत्प्रीतिर्मयि सँलग्ना, व्यभिचारो न तद्धृदि । अङ्गरूपे सुखाशा - तदा जाड्यं च दासता ॥२६२॥ यहृदि स्यान्मम प्रेम, तत्र कामो न तिष्ठति । व्यभिचारी वलकोंऽस्ति, शुजादशुभो महान् २१३ व्यभिचारी क्षितौ दुष्टः, पुष्टो न बलशक्तिभिः । व्यजिचारी स्थिरो न स्या-द्रोगी पापी च चञ्चल: २१४
११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com