SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ (७०) जैनधर्मस्ततो जीव-न्यतो गावो गृहे गृहे । उत्पातास्तत्र नश्यन्ति, मदाज्ञा यत्र पाल्यते ११० प्रतिगृहं सतां मानं, दानं यत्राप्यते मुदा । अतिथिसेवने प्राणा-अर्पिता ते तु मत्समाः ॥१११॥ बुभुक्षूणां मिलेदन्नं, प्रसन्ना यत्र दुःखिनः । तृषार्तीनां तथा वारि, तत्र मद्भक्तिरुद्भवेत् ॥ ११ ॥ गुरूणां पूजनं यत्र, वृद्धा यत्र न दुःखिनः । भक्ता गायन्ति मनानं, मज्ज्ञानं तत्र जायते ॥११३॥ साधूनां वहुसत्कारः, परस्पर मुपग्रहः । रक्ष्यन्ते वालका नार्यो-जनाःशाम्यन्ति पुण्यतः ११४ नाऽन्यायतो यतोदुःखं, जना नाऽन्यायकोपिनः । वैरेष्योपशमो देश-समाजा विन्दते सुखम् ॥१५॥ गृहेगृहे च मे भक्ति-र्यत्र न स्युः क्रुधाऽऽदयः। तत्र शान्तिः सुखं तुष्टि-स्तत्र न स्यादुपद्रवः॥११६॥ क्षाम्यन्तो हि मि थो वैरं, क्षान्ता यत्राऽपराधिनः । व्यवहारो यतो नीत्या, तत्र मद्भक्ति रुत्तमा ॥११७॥ न्यायेन शोनते राज्यं, शान्तिः सम्राजते ततः। दण्डयन्ते पापिनो दुष्टाः, पुण्यं तत्रातिवर्द्धते ॥१८॥ ममाज्ञा पाल्यते यत्र, नोत्पाता नेतयस्ततः । मदाज्ञा नोधरेञ्चित्ते, न नीतिस्तस्य शोजना ॥११९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy