________________
( ६९ ) Qधा समारोपय मा कलई__ क्रोधेन मा ब्रूहि तथापशब्दम् । संरक्ष विना स्वजनान्गुणज्ञे
संरक्ष तद्वत्पशुपक्षिणस्त्वम् ॥ १० ॥ अस्ति गोपालने धर्म-आर्याणां कर्म तच्छुभम् । धेनू रक्ष गृहेकृत्वा, प्रीत्या त्वं हि सुदर्शने ॥ १०३ ॥ पालनेन भवेत्स्वर्गो-गवादिपशुपक्षिणाम् ।। यत्र वासो मृगादीनां, यज्ञयोग्याऽस्ति सा धरा १०४ जवेद्धिंसा गवादीनां, तत्र यज्ञो न जायते । स यज्ञदेश आर्यागां, मज्ज्ञानं यत्र जायते ॥ १०५ ॥ पालयन्ति गवादीन्ये, स्वस्तेषामायुषः क्षये । यत्र गावो निहन्यन्ते, तत्र काचिन्न यज्ञता ॥१६॥ यज्ञेषु पशुनाशेन, फुःखे वासस्तु निश्चितः। यत्र हिंसा ततो यज्ञो, नास्ति शिक्षा प्रमाणय १०७ ये ब्राह्मणक्षत्रियवैश्यशूद्रा__ रक्षन्ति गास्ते सुखिनो भवन्ति । एषाऽऽर्यरीतिः कथिता त्वदर्थ,
तद्वर्तने काऽपि न पापभीतिः ॥ १०८ ॥ समाजदेशयो र्गावो, धनानि महिषादयः । रक्ष्यन्ते तत्र नोत्पाता-मानवा दधते सुखम् ॥१०९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com