________________
तत्र नो जायते शर्म, यत्तत्स्यु व्यभिचारिणः । समाजदेशयोः पातो-बुद्धिकालः पलायते ॥१२० ॥ व्यभिचारादिपापानां, देशादौ स्युर्विपत्तयः । यत्र पापै तो देश-स्तत्र दुःखोद्भवस्तदा ॥१२१ ।। प्रतिगृहं यतो हिंसा, मानवश्वाऽत्ति मानवान् । उग्रपापानि जायन्ते, तत्र देशप्रजा लयः ॥ १२२ ॥ देशस्य पापेन हि देशनाशः,
स्यात्खण्डनाशेन, हि खण्डनाशः। देशस्य पुण्येन विभाति देशः,
खण्डस्य पुण्येन विजाति खण्डः ॥ १३ ॥ पुण्यप्रवृत्तिश्च पवित्रबोधो
यत्रोद्भवेत्तत्र हि पुण्यनीतिः । देशप्रजासंघजनस्य शान्तिः, _सुखं च सम्पद्भवति प्रकामम् ॥१२४ ॥ दुष्टबुड्या नवेत्क्रूरो-दुःखमत्र परत्र च । क्षेमे कृते भवेत्क्षेम, जयः पुण्येन जायते ॥ १२५ ॥ तीनं यत्क्रियते पापं, तत्तु सम्प्रति वेद्यते । फलेदत्र कृतौ धर्मः फलेन्मानसकामना ॥१६॥ भवेन्न्यायन सदवृद्धि-देशे च राज्यसंघयोः। कैस्तमं कुरु नो छद्म, सत्कर्माणि त्वमाचर ॥१२७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com