________________
आविर्भवतितद्भक्त्या, प्रभुराऽऽत्मा स्वमानसे । नास्ति कश्चिन्महान् संघात्, खानी यः सर्वधर्मिणाम् ५० संघोपमा महान् सों, गुणज्ञा नमतार्चत । एकतः सकला धर्माः संघसेवनमेकतः ॥५१ ॥ भव्या वित्त द्वयं तुल्यं, विधेयं संघसेवनम् । एकतः सर्वधर्माःस्यु, रेकतो धर्मिसेवनम् ॥५२॥ दक्षा वित्त द्वयं तुल्यं, कुरुध्वं संघसेवनम् । मार्गानुसारिणः सम्यग्-दृष्टयोऽविरतास्तथा ॥५३॥ गृहस्थाणुव्रतैर्युक्तो, मम संघः श्रियंकरः । गृहस्थत्यागिसंघस्य, सेवनात् कर्मणांलयः ॥ ५५ ॥ गुरो तेंदौ गृही त्यागी, महान् त्यागी च सर्वतः। त्यागिनः प्रणमेत्पादौ, गृहस्था:श्रद्धया सदा ॥५५॥ संघो मिलति सत्कार्ये, धर्माकार्य करोति सः। संघादिकप्रगत्यर्थ, तत्साम्राज्यं नृपात्परम् ॥५६॥ रक्षेत्संघस्य सर्वाङ्ग, भूत्वा शुभप्रनावकः । स्यानिष्कामी च निर्मोही, दोषः संघस्यनोतदा ॥५॥ प्राणाऽत्ययेऽपिनो द्रुह्ये, च्छनंकुर्यात्परस्परम् । मदर्थ संकटान् सोढा, प्रोल्लासी संघसेवने ॥ ५८ ॥ ये प्राणाः गृहिसंघस्य, मुनिसंघोऽनुमा महान् । मत्समंसूरिसाम्राज्यं, धर्मचक्रप्रवर्तकम् ॥ ५९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com