________________
( १२८ )
याहशो यस्य जावोऽस्ति, तस्य तादृक् फलं लवेत् । एवं ज्ञात्वा विवेकेन, सद्भा हदि धारय ॥ ५९१ ॥ विचाराचारतुव्यं हि, फलं भवति देहिनाम् । त्यकत्वाऽशुलं शुग्नं कुर्या-मा प्रमादं कुरुक्षणम्॥५९२॥ यादृशो भवितुं कांक्षे-जनो भवति तादृशः । यानोत्साहबलस्थैर्या-न्मज्जन ईश्वरो भवेत् ॥५९३॥ स्वाऽऽत्मैष सिद्धबुद्धोऽस्ति, मोहावरणसंक्षयात् । स्वस्य पराऽऽत्मतां ज्ञात्वा,पराऽऽत्मा जव सत्वरम्॥५९४॥ अन्तराऽऽत्मा विजानाति, स्वाऽऽत्मानं परमेश्वरम् । शुद्धाऽऽत्मा परमेशोऽरित, स्वं दीनं नैव भावय॥५९५॥ यद्यपि कर्मसंयोगी, तथाऽपि ज्ञानशक्तितः। अन्त हूतकालेन, मुक्तो भवति सर्वथा ॥ ५९६ ॥ ज्ञानध्यानक्रियाभक्ति-सेवायसंख्यसाधनैः ।
आत्मा याति परब्रह्म-परमाऽऽत्मपदं ध्रुवम् ॥५९७॥ माभैषीः कर्मतः किश्चि-दाऽऽत्मना कर्म नश्यति । कर्मतोऽनन्तशक्तिर्हि, वर्तते जाग्रदाऽऽत्मनः ॥५९८॥ ज्ञानाऽऽत्मा कर्मभोक्ताऽपि, कर्मनाशं करोति वै । कर्मणां निर्जरार्थ हि, ज्ञानिनां भोगराशयः ॥५एए। चतुर्दशगुणस्थान-मारोह चोत्तरोत्तरम् । मोक्षप्रासादसोपान-माऽऽत्मशुद्धिगुणाऽऽस्पदम् ॥६००॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com