________________
( १२७ ) आत्मशुद्धोपयोगेन, यत्र तत्र यदा तदा । सर्वविश्वस्थलोकानां, मुक्तिर्भवति निश्चयः ॥ ५८१ ॥ विश्वोद्धाराय धर्मस्य, प्रचारो जगति ध्रुवम् । मया प्रक्रियते नूनं, विश्वदुःखविनाशकृत् ॥ ५८२ ॥ अधर्मःखनाशार्थ, धर्मसंस्थापनाय मे। जन्माऽभूत्तीर्थकृन्नाम्ना, विश्वस्य शान्तिहेतवे ॥५८३॥ यदा हि धर्मतीर्थस्य, नाशो नवति तत्तदा । परेश्वरस्य तीर्थस्य,-कारिणो जन्म जायते ॥५८॥ पापादुःखं सुखं पुण्यात्, स्वर्गश्च नृनवादिकम् । दर्शनज्ञान चारित्रं, मोक्षमार्गो मयोच्यते ॥ ५८५ ॥ मां नजन्ति च ये मुक्त्यै, मुक्तिं यान्ति च ते ध्रुवम्। स्वर्गार्थ मां नजन्तो ये, स्वर्ग यान्ति सुनिश्चयः ५८६ मज्जनाः स्वदशायुक्ता-निष्कामिनश्च कामिनः । आत्मशुद्धिं प्रकुर्वाणा-जवन्ति मुक्तिसम्मुखाः ॥५८७॥ विद्यार्थी ललते विद्या, स्त्रीकामो लभते स्त्रियम् । वित्तार्थी लनते वित्तं, यशोऽर्थी लजते यश: ॥५.८॥ राज्यार्थी बनते राज्य, पुण्यार्थी पुण्यभाग् भवेत् । धर्मार्थकाममोक्षाणां, प्राप्तिमें भक्तितो नवेत् ॥५८९॥ प्रपद्यन्ते यथा ये मां, यादृग्भावेन देहिनः । ताहग्भावेन जायन्ते, यथाभावस्तथाफलम् ॥५९०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com