SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ( १९६) पूर्वजन्मनिवद्धस्य, निकाचितस्य कर्मणः। शुभाऽशुभोदये मज्ज्ञा-हर्ष शोकं न विन्दते ॥५७१॥ सर्वकर्मप्रकुर्वाणा-अपि भिन्ना हि सर्वतः । सर्वस्मिन्नपि जिन्नास्ते, सर्वतः कर्मजोगिनः ॥५७२॥ नीचेष्वपि हि नीचा ये, भवन्त्युच्चा मदाश्रयात् । अनादिकर्मयुक्तास्ते, कर्ममुक्ता भवन्ति हि ॥५७३॥ मदुक्ततत्त्वबोधेन, स्वाऽऽत्मशुद्धिर्नवेद्रयात् । स्वातन्त्र्यमाऽऽत्मराज्यस्य,स्वान्ते नूनं प्रकाशते॥५७१॥ भवन्ति मत्समा जैना,-ज्ञानचारित्रयोगतः । मोहादिकर्मणां शीघ्र, क्षयं कुर्वन्ति मत्पराः ॥५७५॥ मद्भक्तानां बलं बुद्धिः, शान्तिस्तुष्टिः सुखं यशः। पुष्टिनिजाऽऽन्मनः शक्ति-रात्मस्थैर्य प्रकाशते ॥५८६॥ मम धर्म वरं मृत्यु-रन्यधर्मो न शर्मदः । इतिनिश्चित्य मद्लक्तिं, कुर्वन्ति यान्ति ते शिवम् ५७७ विजिन्नसर्वधर्मस्थाः, प्रान्ते प्राप्य मदाश्रयम् । समत्वेन हि संयान्ति, मुक्तिं तत्र न संशयः ॥५७८॥ आन्तरं मत्स्वरूपं हि, समत्वं परमं महत् । प्राप्नुवन्ति हि ये लोका-मुक्तिं यान्ति हि ते ध्रुवम् ५७९ साम्ययोगेन तिष्ठन्तो-जनाः कर्तव्यकारकाः। कर्मभिर्नेव बध्यन्ते-मत्स्वरूपोपयोगिनः ॥ ५८० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy