________________
( १२५ ) जडवादे न मुह्यन्ति, यान्ति चाऽऽत्मोन्नतेः क्रमान् । सदोर्ध्वगमनं तेषां, विनिपातो न चान्तरः ॥ ५६१॥ बाह्यतो दुःखभोगेऽपि, चाऽऽन्तरमाऽऽत्मजीवनम् । बाह्यतो दुर्दशायुक्ता-स्तथापि चान्तराश्चते ॥५६॥ आत्मानन्दोदी मन्ना-ईश्वराः प्रनवो जिनाः । मज्ज्ञातारश्च सज्जैना-भवन्ति ध्यानयोगतः॥५६३ ॥ मच्छ्रद्धायुक्तलोकाना-माऽऽत्मबलं प्रकाशते । रागद्वेषजयाभ्यासो, निष्फलो नैव जायते ॥ ५६४.॥ रागद्वेषजयाभ्यासा-मोहशक्तिर्विनश्यति । प्रान्ते मोहारिनाशेन, जीवः सिद्धः प्रजायते ॥५६५॥ मच्छ्रद्धाघ्रष्टलोकानां, विनिपातः सहस्रधा। बाह्यत इन्द्रतुल्यास्ते, चान्तरे कीटसहशाः ॥५६६।। आत्मज्ञानसुखार्थ स्यु,-मज्जैनानां विपत्तयः । प्रतिकूलञ्च यत्तेषां, प्रत्युत मुक्तिहेतवे ॥५६७ ॥ पुण्योदयेन सातं स्या-दसातं पापकर्मतः । साताऽसातविजिन्नोऽस्ति, स्वाऽऽत्मानन्दो निजाऽऽत्मनि
॥ ५६०॥ यात्मन्येव सुखं सत्य-मस्ति ज्ञानाद्विलोकय। मा जम बाह्यनोगेषु, सुखार्थ वच्मि सद्वचः ॥५६९॥ रागस्य हेतवो ये ये, ते ते वैराग्यहेतवः । नवन्ति मम जैनानां, भोगाः स्युर्योगहेतवे ॥५७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com