SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ( १२९ ) अर्हन् सिद्धस्तथा सूरि-र्वाचकश्च मुनिस्तथा । चारित्रं दर्शनं ज्ञानं,-तप श्वाऽऽत्मैव वस्तुतः॥६०१॥ आत्मनश्चैव पर्याया अर्हत्सिद्धादिकाः खलु । आत्मन्येव सुखं पूर्ण, ज्ञात्वा सन्तोषवान् नव ॥६०२॥ मदालम्बनयोगेन, सर्वजातीयदेहिनाम् । आत्मोन्नतिक्रमप्राप्तिः, स्वान्तरे जायते खल्लु ॥६०३॥ मदाश्रयिमनुष्याणां, योगः क्षेमं भवेत्सदा । अलक्ष्यं ह्यान्तरं तेषां, स्वाऽऽत्मशुद्धिःप्रवर्धते ॥६॥ नास्तिक्यं संशयं त्यक्त्वा, त्यक्त्वा च जड़वादताम् । मदाश्रयप्रपन्नानां, सिद्धिः सुखं च जायते ॥ ६०५॥ मत्प्रतिपक्षिभूताश्च, मत्स्वरूपविचारकाः । मधर्मद्वेषिणः प्रान्ते, मच्चित्ता यान्ति सद्गतिम् ॥६०६॥ एकवारमपि व्यक्ता, रुचिः श्रद्धा ममोपरि । येषां तेषां नवेन्मुक्ति-रवश्यं प्रतिपक्षिणाम् ॥१०॥ अन्तर्मुहूर्तमात्रं यः, सम्यक्त्वं स्पर्शितं खदु । तेषां मुक्तिनवेन्नूनं, नवभ्रमणकारिणाम् ॥ ६०८ ॥ सद्देवगुरुधर्माणां, श्रद्धाप्रीतिप्रधारिणः । जैना यान्ति जिनत्वं ते, ज्ञानवैराग्यकर्भगः ॥६०९॥ कोटिस्वार्थानपि त्यत्तवा, क्षणतः साधुसंगतिम् । कुरुष्व श्रद्धया प्रीत्या, सद्भिराऽऽत्मा प्रकाश्यते ॥६१०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy