________________
(१०४ ) वशीकृत्य मनस्तिष्ठे-त्सहेताऽपि रुजादिकम् । एकीभय गहे तिष्ठ, जवाऽन्यस्य गुणग्रही ॥ ४२ ॥ नोदासीना भवाऽऽपत्तौ, विश्वसीहि मयि स्थिरम् । हर्ष वह मयि प्रीत्या, मोहजालं निराकुरु ॥ ४२८ ॥ आत्मोन्नतिकृते सर्व, ज्ञात्वा विश्वासमाचर । समः सर्वास्ववस्थासु, वर्तस्वाऽऽनन्दतः सुखी ॥४२९॥ दुःखदृश्यानि शिक्षार्थ, ज्ञात्वा स्या न मनोवशः । दोषं कुत्राऽपि नो देहि, सर्व शिक्षय वस्तुतः॥४३०॥ एकोऽन्यस्मिन्कुरु प्रीति-मेकोऽन्यक्षेममाचर । धर्मनेदान्न दुष्टाःस्युः, पुष्टाःस्युर्गुणरागतः ॥ ४३१॥ धर्मनिञ्चित्तनेदेन, स्वाऽऽत्मानेदेन वर्त्तताम् । श्रात्मनिन्नं जडं विद्धि, धर्मः सत्यस्ततो ध्रुवम् ४३२ दृश्यते यत्र यत्राऽत्मा, मत्समं प्रेम तत्स्थले । आत्मन्येव रसःशुद्धो-यो विन्ते शिवमभुते ॥३३॥ परब्रह्म ततो यत्र, गृहाऽऽवासे नच नमः। मद्भक्ता ईदृशा यत्र, तत्र स्वर्गोऽथ सिद्धयः ॥३४॥ बलं धीराऽऽत्मविश्वासो-यत्र तत्र सुखं ध्रुवम् । न सुखं सत्तया लक्ष्म्या, न वा देशादिमोहतः ४३५ असन्तोषी महान्दुःखी, क्रूरो जावोऽस्ति यद्धृदि। लक्ष्मीः सत्ता भवेन्नो वा, परं सन्तोषिणां सुखम् ४३६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com