________________
(१०३) उपकारो हि सन्ताने, कर्तव्यो मातृपितृभिः । मातरं पितरं विद्धि, तीर्थवत्तौ प्रपूजय ॥४१७ ॥ मद्भक्तःप्रभवेद्यःस-मातापित्रुपकारवित् । न धर्मी न गुरोर्नक्तो-मातापित्रुपकारहा ॥१८॥ मातापित्रोमिलेदाशी-र्यस्य तस्य जयं नहि । पित्रोदुःखप्रदो दुःखी, सुखी स्याच्च सुखप्रदः॥४१९॥ दुष्टो मूखों न जानाति, मातापित्रोरुपमहम् । मातापितृविनाशी यो-दुर्गतिर्दुर्मतिर्भवेत् ॥ ४२० ॥ पितरौ सेवते यश्च, स भक्तः परमो मतः। प्रातरुत्थाय वन्दस्व, धीःसुखं येन वर्द्धते ॥ ४२१ ॥ मातापितषु मां पश्य, तदोषान्मा विचिन्तय । मातापित्रोश्च सद्बोधं, वह तो मत्समौ भज ॥४२२॥ गुरोर्ज्ञानी स यो वेत्ति, मातापित्रोरुपग्रहम् । मिथो जीवोपकारोऽस्ति, वर्ततां तद्विचारतः ॥४२३॥ अपारं दुःखमाप्नोति, योऽपकोंपकारिणः । नामरूपायुपाधीश्च, विस्मरेन्न च गर्वकृत् ॥ ४२४ ॥ सर्वे वारा हि तत्पर्व, कोटिकल्याणमाप्नुयात् । नित्यनैमित्तिकावश्य-कर्माण्याकस्मिकानि यत् ४२५ कुर्वस्तगौणमुरव्याभ्या-माऽऽत्मराज्यं स चाऽश्नुते । इन्द्रियाण्यश्वतुल्यानि, दाम्येयुर्हि नराः स्त्रियः ४२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com