________________
(१०२) धर्मस्तत्र यतः कर्म, निश्चयव्यवहारतः । प्रवृत्तौ धर्ममाज्ञाय, निवृत्तौ शर्म वेदयेत् ॥ ४० ॥ दम्पत्योर्जीवनं धर्मे, वहेत्सत्सुखदुःखयोः । तुष्टिरन्तबहीराग-रोषौ प्राप्तदशासु न ॥४८॥ गार्हस्थ्यधर्ममैक्येन, कुर्वन्ती सद्विचारतः । गृहस्थजीवनं धर्म, कुर्याचाऽधर्ममुत्सृजेत् ॥ ४०९ ॥ मां स्मरेत्सर्वकृत्येषु, सर्वत्र मां विलोकयेत् । सर्वान्ते मां च पश्येद्यो-जानीयाद्गुह्यमान्तरम् ४१० दाम्पत्यजीवनं तेषां, ये मद्भक्ता नराः स्त्रियः । मद्भक्तिबलतो यान्ति, तेऽनन्तमाऽऽत्मजीवनम् ॥४११॥ वैराग्यं चेद्गृहावाप्ते, तदा त्यागः शुभो नवेत् । रागस्याऽपेक्षयात्यागं,मद्नक्तिं विन्दते शुजाम्॥४१२॥ रागत्यागौ च चित्तस्य, तजारहि सुदर्शने !!। अस्त्यौपचारिकत्यागो-रागत्यागौ न चाऽऽत्मसु ४१३ शुभाशुनौ मनोभावौ, ततश्चाऽऽत्मा स्वयं पृथक् । शुनाशुभविचारेभ्यो-निन्नाऽऽत्मधर्मकृद्भव ॥४१४॥ वर्ततां गुणकर्मभ्या-मनोन्यस्य ममान्तिके । निरासत्या भवेच्छ्रद्धो-युद्धोऽहन्धिष्णुरीश्वरः॥४१५॥ पुत्रीपुत्रान्कुरु श्रेष्ठा-न्गृहसूत्रं तु नीतिभिः। गुणिनो यदि सन्ताना-राज्यं संघश्च शोभते ॥४९६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com