________________
(१०१) संघार्पणफलं सर्व, निष्काममुपकारिका। निराकारं च साकारं, प्रभुज्ञात्वा प्रियं चरेत् ॥३७॥ क्षेत्रकालाऽनुसारेण, विजानीयाच्छुनाऽशुभम् । सन्तानान् सबलान्कुर्या-द्विनयादिकसद्गुणैः॥३९॥ यत्रैवं दम्पती तत्र, स्वर्गश्चाऽस्ति महो मम । रागत्यागौ गृहाऽऽवासे, चान्ते सत्यं विरागिता॥३९९॥ अन्योऽन्यं प्रकृतेः साम्यं, लग्नं गुणत्रयाऽऽत्मिकम् । दम्पत्योर्जीवनं सौख्ये, विना सत्प्रेम मुर्गतिः॥४०॥ यदि ज्ञानं गृहाऽऽवासे, भक्तिस्तर्हि सुखं स्वकम् । कठिनोऽपि गृहाऽवासः, सरलस्त्वाऽऽत्मभोगतः॥४०॥ सेवाऽऽतिथ्याऽऽत्मभोगाश्च, गृहाऽवासे जवन्ति चेत् । अन्योन्यप्रकृतौल-स्तदाऽणुव्रतनक्तयः ॥ ४०२ ॥ गृहस्थकर्मयोगी यो-निलेपश्च गुणान्वितः। आजीविकादिवृत्त्यर्थ, प्रामाण्यं जीवनं वहेत् ॥४०३॥ कामादिकं यदा शाम्ये-तदा निर्भीः स्वतन्त्रता । गृहावासे निजाऽत्मानं, देहाऽध्यासं विना वहेत् ४०४ वर्णास्ते गुणकर्मभ्यां, निर्मोहो नामरूपयोः। लीप्साभये विना सत्यं, भावय व्यवहारतः ॥४०५॥ सत्यं वर्द्धत वैराग्यं, दम्पत्योर्जीवनं यतः। मनोरागोभवेच्छुद्धो-रागोऽन्तर्हृदि चोद्भवेत् ॥१०६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com