________________
(१००) धर्मयुद्धे चलेदग्रे, नीत्या मोहेन न स्खलेत् । सर्वयुक्त्या च शस्त्रायै-युध्यन्नो पतितोलवेत्॥३८९॥ नोच्चनीचौ गुणैः कार्यः, संयमे धारयन्मनः । भ्रांतोऽपि न त्यजेद्धर्म, योग्य कर्म सदाऽऽचरेत्॥३९॥ सत्पात्रे वितरेहानं, गुरुवाणी निशामयेत् । गुरुबोधाद्विदन्सर्व, साधुवन्दञ्च मानयेत् ॥ ३९१ ॥ स्वार्थेषु नो जवेदन्धो-दुर्गुणव्यसनं विना । गृहे क्लेशं न वा कुर्या-दतिलोभं न वा चरेत् ॥३९२॥ रागिद्वेषिजिदं विद्या-न्नापत्तौ खेदयेन्मनः । कुर्यात्सजनसंगं च, योग्याऽयोग्यं विचारयेत्॥३९३॥ व्यापारविद्यादिककर्म कुर्व
निजाऽधिकारेण च धर्म्यकर्म । सम्वेदयेच्चाऽखिलजातिनीति,
प्रेम्णा मदाज्ञामपि पालयेद्यः ॥३९४॥ प्रजादिराज्यादिककर्मकुर्व
प्रेम्णा परस्याऽपि सहायकर्ता। देशस्य राज्यस्य च पालने यः,
कर्म प्रकुर्वन्गुणिरागवान्स्यात् ॥३९५ ॥ चरस्थावरतीर्थानां, देवः स्याच्छुड़सेवया । दानं शीलं तपोभावा-करोति शुद्धभावतः ॥३१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com