________________
( ९९ ) पत्नी शूद्रीं न जानीया-त्सर्वशास्त्रं पठद्धिया। जैनधर्मान्न वै श्ये-देशवेषौ नच त्यजेत् ॥३७९॥ मानयद्देशवेषौ च, यथाऽऽयं व्ययमाचरेत् । कुर्यादवश्यकर्माणि, सत्याचारं च पालयेत् ॥३८॥ मात्रादिगुरुनक्तिं च, कुर्वन्शक्तिं विकाशयेत् । पत्न्युपरि न च ऋष्या-पत्न्यादिप्रतिवोधयेत्॥१८॥ नेच्छेद्भोगं परस्त्रीषु, भोगे रोगं विलोकयेत् । नावद्रव्यं चरेब्रह्म, रक्षेद्वीर्यादिकं तथा ॥३८२॥ विश्वासी स्याद्गुरौ देवे, वर्तेत पौरुषैर्गुणैः। पतिरेवं च पत्नी च, तत्र जैनोन्नतिध्रुवम् ॥ ३८३ ॥ मदर्थ स्वार्पणं कुर्या-ज्जैनधर्मप्रचारकः । देहान्महान्तमात्मानं,वेत्ति पतिगुणाकरः ॥ ३८४ ॥ देहादि साधनं वेत्ति, चाऽऽत्मानं वेत्ति साधकम् । पतिर्वतेत तज्ज्ञावा, चान्ते तस्याऽस्ति मे गतिः॥३८५॥ पत्न्यादिबालवृन्दानां, पोषकः पालकस्तथा । दानाऽऽदाने च सोढा स्या-त्कुर्यायुद्धे पराक्रमम३८१ शत्रुषु विजयं कुर्व-जैनरीतिं च पालयेत् । समग्रलीपिभाषाज्ञो-निलेपश्च गृहस्थितौ ॥ ३८७ ॥ भुक्त्याचारगृहावास-प्रवृत्ती योग्यवेदकः । गर्भाधानादिसँस्कारं, कारयन्कुरुते पुनः ॥ ३८८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com