SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ( ९८ ) कुटुम्बं पालयेत्प्रीस्या, पूजयेत्सेवयेद्गुरून् । जैनवृद्धौ प्रकुर्य्याच्च, वियातनुधनव्ययम् ॥ ३६९ ॥ प्रामाणिकं प्रवर्तेत, तस्याः स्याद्धृदि मन्मतिः । मदाज्ञया रतिं कुर्या-त्तस्याः स्यादुत्तमा गतिः ३७० सुलनः पतिभावो न, यदि सत्यं विचारयेत् । योग्यः स्याद्गुणकर्मभ्यां, निदोषी च निरोगवान् ३७१ आत्मभोगश्च निष्कामो-धृतिमन्नाम चेतसि । नारी परिणयेत्सैव, यो विद्यालग्नयोग्यताम् ॥ ३७२॥ प्रतिज्ञापालनं कुर्या-नान्धः स्यान्नामरूपयोः। अन्तः स्याच्छन्नरागश्च, सेवाभक्तिर्विरागिता ॥३७३॥ स्वार्पणं जैनसेवायां, मदाज्ञां शिरसा वहेत् । विद्यात्सर्वकलाशिक्षा, बुद्धिं मानं च सात्विकम् ३७४ कालोचितक्रियावेत्ता, कर्मयोगी शुनप्रदः । धीरो वीरोऽथ गम्भीरो-बलवान्पौरुषैर्गुणैः, ॥३७॥ जानीयावस्त्रवत्कायं-क्षयादिरोगवान यः । गुणी वाकायचित्तै यो-लग्नयोग्यः स वै पतिः॥३७६॥ समाजसंघसेवाया-मानन्दी क्लेशवर्जितः । उद्योगी साहसी लक्ष्यी, यश्चित्ते सन्ति साधवः॥३७७॥ सहेत कोटिदुःखानि, मच्छृद्धामन्तरे वहेत् । उदारो ज्ञानवान्प्रेमी, सात्विकाहारभोजनः ॥३८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy