________________
( १०५ ) अधिकारो गृहस्थानां, देशादीनां च रक्षणे । लक्ष्मी सत्तां च यो रक्षे-सुखी स्याद्व्यवहारतः॥४३७॥ दुष्यों दण्ड्यते नैव, भ्रान्त्या ब्रान्तो न वा नवेत् । धूर्तश्च वञ्च्यते नैव, निर्मायी सरलैः सह ॥ ४३८॥ समाजदेशकृत्यानि, कुर्वन्सत्यं च संवदेत् । सर्वैः सार्द्धमन्नेदेन, वर्तते नच पापकृत् ॥ ४३९ ॥ एवं यत्र नरा नार्यो-वृद्धा युवकुमारकाः। वर्त्तते मङ्गलं तत्र, स्वातन्त्र्यं निर्भयं मनः ॥ ४४० ॥ आत्मनोगो भवेत्तत्र, न पक्षाऽपक्षता भवेत् । औदार्येण गृहावासी, कृपणो न बहुव्ययी ॥ ४४१ ॥ वृद्धाज्ञा मन्यते गेहे, प्राणानैक्यार्थमर्पयेत् । भेदः स्वार्थो यतो न स्या-त्तत्र सौख्य नृतं गृहम् ४४२ अभियोगशमौ यत्र, मर्यादा लघुवृद्धयोः । न्यायलानोऽस्ति सर्वेषां, क्लेशो नच कुटुम्बिनाम् ४४३ स्यात्क्षमापनमन्योऽन्यं, नोन्मादो नच शत्रुता। सत्ताधनतनुत्यागै-रेवयं शान्तिः सुखं भवेत् ॥४४४॥ नाल्पं नो वाऽधिकं यत्र, चैकोऽन्यत्र प्रसीदति । संघे देशे गृहे सौख्यं, गुणैर्दुःखविनाशनम् ॥४४५॥ एकस्याऽन्यहिते प्राणा-आत्माऽऽनन्दो यतो महान् । यत्र योगः प्रकृत्याऽस्ति, भोगस्तत्र सुखं ततः॥४४६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com